Sahitya Samhita

Sahitya Samhita Journal ISSN 2454-2695

Ticker

6/recent/ticker-posts

एकमुखी हनुमत कवच : यह कवच धारक की दसो दिशाओं से रक्षा करता है


 ॥ अथ श्री एकमुखि हनुमत्कवचं ॥


 

मनोजवं मारुततुल्य वेगं, जितेंद्रियं बुधिमतां वरिष्ठं ।

वातात्मजं वानर्युथ्मुख्यं, श्रीराम्दूतं शरणं प्रप्धे ।।

 


अथ श्री हनुमते नम:


 

एकदा सुखमासीनं शंकरं लोकशंकरं ।

पप्रच्छ गीरिजाकांतं कर्पूधवलं शिवं ।।



पार्वत्युवाच

 

भगवन्देवदेवेश लोकनाथं जगद्-गुरो ।

शोकाकुलानां लोकानां केन रक्षा भवेद ध्रुवं ।।

संग्रामे संकटे घोरे भूतप्रेतादिके भये ।

दुखदावाग्नि संतप्त चेतसां दुखभागिनां ।।





ईश्वर उवाच

 

श्रणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ।

विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ।।

कवचं कपिनाथस्य वायुपुत्रस्य धीमत: ।

गुह्यं ते संप्रवछ्यामि विशेषाच्छ्रिणु सुन्दरि ।।

 

ॐ अस्य श्रीहनुमत् कवच-स्त्रोत्र-मंत्रस्य श्रीरामचंद्र ऋषिः । अनुष्टुप्छंदः ।

श्रीमहावीरो हनुमान देवता । मारुतात्मज इति बीजं ।।

ॐ अंजनीसुनुरिति शक्ति: । ॐ ह्रैं ह्रां ह्रौं इति कवचं ।

स्वाहा इति कीलकं । लक्ष्मण प्राणदाता इति बीजं ।

मम् सकलकार्य सिध्दयर्थे जपे वीनियोग: ।।





अथन्यास

 

ॐ ह्रां अंगूष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।

ॐ ह्रूं मध्यमाभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: ।

ॐ ह्रौं कनिष्ठिभ्यां नम: । ॐ ह्र: करतल करप्रिष्ठाभ्यां नम: ।

ॐ अंनीसूनवे ह्र्दयाय नम: । ॐ रुदमूर्तये सिरसे स्वाहा ।

ॐ वायुसुतात्मने शिखायै वषट् । ॐ वज्रदेहाय कवचाय हुं ।

ॐ रामदूताय नेत्र-त्रयाय वौषट् । ॐ ब्र्ह्मास्त्र निवारणाय अस्त्राय फट् ।

 

ॐ राम-दूताय विद-महे कपि-राजाय धीमहि ।

तन्नो हनुमान प्रचोदयात् ॐ हुं फट् ।।




।। इति दिग्बन्धः ।।



ॐ ध्यायेद्-बाल दिवाकर-धुतिनिभं देवारिदर्पापहं

देवेन्द्र-प्रमुख-प़शस्त-यशसं देदीप्यमानं रुचा ।

सुग्रीवादि-समस्त-वानर-युतं सुव्यक्त-तत्वप्रियं

संरक्तारुण-लोचनं पवनजं पीतांबरालंकृतं ।।१।।

 

उधन्मार्तण्ड-कोटि-प्रकट-रुचियुतं चारु-वीरासनस्थं

मौंजी-यज्ञो-पवीता-रुण-रुचिर-शिखा-शोभितं कुंडलागम् ।

भक्ता-नामिष्ट-दं तं प्रणत्-मुनिजनं वेदनाद-प्रमोदं

ध्याये-देव विधेयं प्ल्वंग-कुल-पतिं गोष्पदी भूतवार्धिं ।।२।।

 

वज्रांगं पिंगकेशाढ्यं स्वर्णकुंडल-मंडितं ।

नियुध्द-कर्म-कुशलं पारावार-पराक्रमं ।।३।।

 

वामहस्ते महावृक्षं दशास्यकर-खंडनं ।

उध-दक्षिण-दौर्दण्डं हनुमंतं विचिंतयेत् ।।४।।

 

स्फटिकांभं स्वर्णकान्ति द्विभुजं च कृतांजलिं ।

कुंडलद्वय-संशौभि मुखांभोजं हरिं भजेत् ।।५।।

 

उधदादित्य संकाशं उदारभुजविक़मम् ।

कंदर्प-कोटिलावण्यं सर्वविधा-विशारदम् ।।६।।

 

श्रीरामहृदयानंदं भक्तकल्पमहीरूहम् ।

अभयं वरदं दोर्भ्यां कलये मारूतात्मजम् ।।७।।

 

अपराजित नमस्तेऽस्तु नमस्ते रामपूजित ।

प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ।।८।।

 

यो वारां निधि-मल्प-पल्वल-मिवोल्लंघ्य-प्रता-पान्वितो

वैदेही-घन-शोक-तापहरणो वैकुण्ठ-तत्वप्रियः ।

 

अक्षाघूर्जित-राक्षसेश्वर-महादर्पापहारी रणे

सोऽयं-वानर-पुंगवोऽवतु सदा युष्मान्-समीरात्मजः ।।९।।

 

वज्रांगं पिंगकेशं कनकमयल-सत्कुण्डला-क्रांतगंडं

नाना विधाधिनाथं करतल-विधृतं पूर्णकुंभं दृढं च ।



भक्ताभीष्टाधिकारं विदधति च सदा सर्वदा सुप्रसन्नं

त्रैलोक्यं-त्राणकारं सकलभुवनगम् रामदूतम् नमामि ।।१०।।

 

उधल्लांगूल-केशप्रलय-जलधरं भीममूर्तिं कपींद्रं

वंदे रामांघ्रि-पद्म-भ्रमरपरिवृतं तत्वसारं प्रसनम् ।

वज्रांगं वज्ररुपं कनकमयल-सत्कुण्डला-क्रांतगंडं

दंभोलिस्तंभ-सार-प्रहरण विकटं भूतरक्षोऽधिनाथम् ।।११।।

 

वामे करे वैरिभयं वहंतं शैलं च दक्षेनिजकण्ठलग्नम् ।

दधान-मासाद्ध सुवर्णवर्ण भजेज्ज्वलत्कुंडल-रामदूतम् ।।१२।।

 

पद्मरागमणि कुंडलत्विषा-पाटलीकृत-कपोलमण्डलम् ।

दिव्यगेह-कदली-वनांतरे भावयामि पवमान-नन्दनम् ।।१३।।




ईश्वर उवाच


 

इति वदति-विशेषद्राधवो राक्षसेंद्र प्रमुदितवरचितो रावणस्यानुजो हि ।

रघूवरदूतं पूज्यमास भूयः स्तुतिभिरकृतार्थ स्वं परं मन्यमानः ।।१४।।

 

वन्दे विघुद्वलय सुभगम् स्वर्णयज्ञोपवीतं

कर्णद्वंद्वे कनकरूचिरे-कुण्डले धारयन्तम् ।

 

उच्चैर्ह्रस्य दधुमणि किरणो श्रेणि संभावितांगम्

सत्कौपीनं कपिवरवृतं कामरूपं कपीन्द्रम् ।।१५।।

 

मनोजवं मारुत तुल्य वेगं, जितेंद्रियं बुद्धिमतां वरिष्ठं ।

वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं सततं स्मरामि ।।१६।।

 

ॐ नमो भगवते ह्रदाय नम: । 

ॐ आंजनेयाय शिरसे स्वाहा ।

ॐ रूद्रमूर्तये शिखायै वषट् । 

ॐ रामदूताय कवचाय हुम् ।

ॐ हनुमते नेत्रत्रयाय वौषट् । 

ॐ अग्निगर्भाय अस्त्राय फट् ।

 

ॐ नमो भगवते अंगुष्ठाभ्यां नम: । 

ॐ वायुसूनवे तर्जनीभ्यां नम: ।

ॐ रूद्रमूर्तये मध्यमाभ्यां नम: । 

ॐ वायुसूनवे अनामिकाभ्यां नम: ।

ॐ हनुमते कनिष्ठिकाभ्यां नम: । 

ॐ अग्निगर्भाय करतल करप्रिष्ठाभ्यां नम: ।

 

अथ मंत्र उच्यते

 

ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।

 

ॐ ह्रीं ह्रौं ॐ नमो भगवते महाबल पराक्रमाय भूत प्रेत पिशाच शाकिनी डाकिनी यक्षिणी पूतनामारी महामारी भैरव यक्ष बेताल राक्षस ग्रह राक्षसादिकं क्षणेन हन हन भंजय भंजय मारय मारय सिक्ष्य सिक्ष्य महामाहेश्वर रूद्रावतार ह्रुं फट् स्वाहा ।

 

ॐ नमो भगवते हनुमादाख्याय रूद्राय सर्वदुष्टजनमुखस्तंभनं कुरू-कुरू ह्रां ह्रीं ह्रूं ठं-ठं-ठं फट् स्वाहा ।

 

ॐ नमो भगवते अंजनीगर्भसंभूताय रामलक्ष्मणानन्दकराय कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीव साधकाय रणोच्च्टनाय कुमार ब्रह्मचारिणे गंभीर-शब्दोदयाय |






ॐ ह्रां ह्रीं ह्रूं सर्वदुष्ट निवारणाय स्वाहा ।

 

ॐ नमो हनुमते सर्वग्रहान्भूतभविष्य-दूर्तमानान्-दूरस्थान् समीपस्थान् सर्वकाल दुष्टदुर्बुद्धीन उच्चाट योच्चाटय परबलानि क्षोभय क्षोभय मम् सर्वकार्यं साधय साधय हनुमते |

 

ॐ ह्रां ह्रीं ह्रूं फट् देहि ।

 

ॐ शिवं सिद्धं ह्रां ह्रीं ह्रूं ह्रौं स्वाहा ।

 

ॐ नमो हनुमते परकृतयंत्र-मंत्र-पराऽहंकार-भूतप्रेत पिशाच परदृष्टि-सर्वविध्न-दुर्जनचेटक विधा सर्वग्रहान् निवारय निवारय वध वध पच पच दल दल किल किल सर्वकुयंत्राणि-दुष्टवाचं फट् स्वाहा ।

 

ॐ नमो हनुमते पाहि पाहि एहि एहि सर्वग्रह भूतानां शाकिनी-डाकिनीनां विषम् दुष्टानां सर्वविषयान् आकर्षय आकर्षय मर्दय मर्दय भेदय भेदय मृत्युमुत्पाटयोत्पाटय शोषय शोषय ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल भूतमंडलं प्रेतमंडलं पिशाचमंडलं निरासय निरासय भूतज्वर प्रेतज्वर चातुर्थिकज्वर विषंज्वर माहेश्वरज्वरान् छिंधि छिंधि भिंधि भिंधि अक्षिशूल वक्षःशूल शरोभ्यंतरशूल गुल्मशूल पित्तशूल ब्रह्र-राक्षसकुल परकुल नागकुल विषं नाशय नाशय निर्विषं कुरू कुरू फट् स्वाहा ।

 

ॐ ह्रीं सर्वदुष्ट ग्रहान् निवारय फट् स्वाहा ।।

 

ॐ नमो हनुमते पवनपुत्राय वैश्वानरमुखाय हन हन पापदृष्टिं षंढ़दृष्टिं हन हन हनुमदाज्ञया स्फुर स्फुर फट् स्वाहा ।।

 



श्रीराम उवाच

 



हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।

प्रतीच्यां पातु रक्षोध्न उत्तरास्यांब्धि पारगः ।।१।।

 

उध् मूध्वर्गः पातु केसरीप्रियनंदनः ।

अधस्च विष्णु भक्तस्तु पातु मध्ये च पावनिः ।।२।।

 

अवान्तर दिशः पातु सीताशोकविनाशनः ।

लंकाविदाहकः पातु सर्वापदभ्यो निरंतरं ।।३।।



सुग्रीवसचिवः पातु मस्तकं वायुनंदनः ।

भालं पातु महावीरो भ्रुवोमध्ये निरंतरं ।।४।।

 

नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ।

कपोलौ कर्णमूले तु पातु श्रीरामकिंकरः ।।5।।

 

नासाग्रम्-अंजनीसूनुर्वक्त्रं पातु हरीश्वरः ।

वाचं रूद्रप्रियः पातु जिह्वां पिंगललोचनः ।।६।।

 

पातु दंतांफाल्गुनेष्टश्चिबुकं दैत्यप्राणह्रृत् ।

पातु कण्ठण्च दैत्यारीः स्कंधौ पातु सुरार्चितः ।।७।।

 

भुजौ पातु महातेजाः करौतू चरणायुधः ।

नखांनखायुध पातु कुक्षिं पातु कपीश्वरः ।।८।।

 

वक्षोमुद्रापहारी-च पातु पार्श्र्वे भुजायुधः ।

लंकाविभंजनः पातु पृष्ठदेशे निरंतरं ।।९।।

 

नाभिंच रामदूतोस्तु कटिं पात्वनिलात्मजः ।

गुह्मं पातु महाप्रज्ञः सक्थिनी-च शिवप्रियः ।।१०।।

 

उरू-च जानुनी पातु लंकाप्रासादभंजनः ।

जंधे पातु महाबाहुर्गुल्फौ पातु महाबलः ।।११।।

 

अचलोध्दारकः पातु पादौ भास्करसन्निभः ।

पादांते सर्वसत्वाढ्यः पातु पादांगुलीस्तथा ।।१२।।

 

सर्वांगानि महावीरः पातु रोमाणि चात्मवान् ।

हनुमत्कवचं यस्तु पठेद्विद्वान् विलक्षणः ।।१३।।

 

स-एव पुरूषः श्रेष्ठो भक्तिं मुक्तिं-च विंदति ।

त्रिकालमेककालं-वा पठेन्मात्रयं सदा ।।१४।।

 

सर्वान-रिपून्क्षणे जित्वा स पुमान् श्रियमाप्नुयात् ।

मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्धादि ।।१५।।

 

क्षयाऽपस्मार-कुष्ठादिता-पत्रय-निवारणं ।

आर्किवारेऽश्र्वत्थमूले स्थित्वा पठतिः यः पुमान् ।।१६।।

 

अचलां श्रियमाप्नोति संग्रामे विजयीभवेत् ।।१७।।



यः करे धारयेन्-नित्यं-स पुमान् श्रियमाप्नुयात् ।

विवाहे दिव्यकाले च द्धूते राजकुले रणे ।।१८।।

 

भूतप्रेतमहादुर्गे रणे सागरसंप्लवे ।

दशवारं पठेद्रात्रौ मिताहारी जितेंद्रियः ।।१९।।

 

विजयं लभते लोके मानवेषु नराधिपः ।

सिंहव्याघ्रभये चोग्रेशर शस्त्रास्त्र यातने ।।२०।।

 

श्रृंखलाबंधने चैव काराग्रहकारणे ।

कायस्तंभ वहिन्नदाहे च गात्ररोगे च दारूणे ।।२१।।

 

शोके महारणे चैव ब्रह्मग्रहविनाशने ।

सर्वदा तु पठेन्नित्यं जयमाप्नोत्य संशयं ।।२२।।

 

भूर्जेवा वसने रक्ते क्षौमेवा तालपत्रके ।

त्रिगंधेन् अथवा मस्या लिखित्वा धारयेन्नरः ।।२३।।

 

पंचसप्तत्रिलौहैर्वा गोपितं कवचं शुभं ।

गलेकट्याम् बाहुमूले वा कण्ठे शिरसि धारितं ।।२४।।

 

सर्वान्कामानवाप्नोति सत्यं श्रीरामभाषितं ।।२५।।

 

उल्लंघ्य सिंधोः सलिलं-सलिलं यः शोकवन्हि जनकात्मजायाः ।

आदाय तेनैव ददाह लंकां नमामितं प्राण्जलिराण्जनेयम् ।।२६।।

 

ॐ हनुमान् अंजनी सूनुर्वायुर्पुत्रो महाबलः ।

श्रीरामेष्टः फाल्गुनसंखः पिंगाक्षोऽमित विक्रमः ।।२७।।

 

उदधिक्रमणश्चैव सीताशोकविनाशनः ।

लक्ष्मणप्राणदाताच दशग्रीवस्य दर्पहा ।।२८।।

 

द्वादशै तानि नामानि, कपींद्रस्य महात्मनः ।

स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ।।२९।।

 

तस्य सर्वभयं नास्ति, रणे च विजयी भवेत् ।

धन-धान्यं भवेत् तस्य दुःखं नैव कदाचन ।।३०।।






ॐ ब्रह्माण्ड पूर्णांतर गते नारद अगस्त् संवादे ।

श्रीरामचंद्र कथितम् पंच-मुखेक एकमुखी हनुमत् कवचं ।।




॥ ॐ तत्-सत् ॥


भगवान श्री बजरंगबली की जय हो ॥